॥ शुक्र कवचम् ॥
मृणाल कुन्देन्दु पयोज सुप्रभं पीतांबरं प्रसृतम् अक्ष मालिनम् ।
समस्त शास्त्रार्थ निधिं महान्तं ध्यायेत् कविं वाञ्छितम् अर्थ सिध्दये ॥ 1 ॥
ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ।
नेत्रे दैत्य गुरुः पातु श्रोत्रे मे चन्दन द्युतिः ॥ 2 ॥
पातु मे नासिकां काव्यो वदनं दैत्य वन्दितः ।
वचनं चोशनाः पातु कण्ठं श्री कण्ठ भक्तिमान् ॥ 3 ॥
भुजौ तेजो निधिः पातु कुक्षिं पातु मनो व्रजः ।
नाभिं भृगु सुतः पातु मध्यं पातु महीप्रियः ॥ 4 ||
कटिं मे पातु विश्वात्मा उरू मे सुर पूजितः ।
जानुं जाड्यहरः पातु जन्घे ज्ञान वतां वरः ॥ 5 ॥
गुल्फौ गुण निधिः पातु पातु पादौ वराम्बरः ।
सर्वाण्यङ्गानि मे पातु स्वर्ण माला परिष्कृतः ॥ 6 ॥
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।
न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ 7 ॥
॥ इति श्री ब्रह्माण्ड पुराणे शुक्र कवचं सम्पूर्णम् ॥