Ketu Kavach

॥ केतु कवचम् ॥

केतु करालवदनं चित्रवर्ण किरीटिनम् ।
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥ १ ॥

चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः ।
पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः ॥ २ ॥

घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ।
पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः ॥ ३ ॥

हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः ।
सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ ४ ॥

ऊरु पातु महाशीर्षो जानुनी मेऽतिकोपनः ।
पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिंगलः ॥ ५ ॥

य इदं कवचं दिव्यं सर्व रोग विनाशनम् ।
सर्व शत्रु विनाशम् च धारणा द्विजयी भवेत् ॥ ६ ॥

॥ इति श्री ब्रह्माण्ड पुराणे केतुकवचं संपूर्णम् ॥

 

Related Articles

Learn with us, Earn with us
Join our paid courses

About us

Learn and Cure एक Digital Platform है जहां पर Astrology, Numerology, Vaastu Shastra, Health, Medical, Yoga, Diet Plan आदि के बारे में ऐसी सूचना प्रदान की जाती है जिनके द्वारा जीवन को बेहतर बना सकते हैं|

Links

Contact Us

Astrology Links

Health

Festivals

Numerology

Vaastu Shastra

Kavach/Stotra/Pooja

Courses

Design and Developed by Adxventure