॥ दशरथ कृत शनि स्तोत्र॥
ॐ शं शनैश्चराय नमः
ॐ शं शनैश्चराय नमः
ॐ शं शनैश्चराय नमः
नमः कृष्णाय नीलाय शितिकण्ठ निभाय च ।
नमः कालाग्नि रूपाय कृतान्ताय च वै नमः ।।
नमो निर्मास देहाय दीर्घश्मश्रु जटाय च।
नमो विशालनेत्राय शुष्कोदर भयाकृते ।
नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमः ।
नमो दीर्घाय शुष्काय कालदष्ट्र नमोऽस्तुते ।।
नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः।
नमो घोराय रौद्राय भीषणाय कपालिने ।।
नमस्ते सर्वभक्षाय वलीमुखाय नमोऽस्तुते ।
सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदाय च।।
अधोदृष्टेः नमस्तेऽस्तु संवर्तक नमोऽस्तुते ।
नमो मन्दगते तुभ्यं निरिस्त्रणाय नमोऽस्तुते ||
तपसा दग्ध देहाय नित्यं योगरताय च ।
नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः ।।
ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मज सूनवे ।
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ।।
देवासुर मनुष्याश्च सिद्ध विद्याधरोरगाः ।
त्वया विलोकिताः सर्वे नाशंयान्ति समूलतः ।।
प्रसाद कुरु मे देव वाराहोऽहमुपागत ।
एवं स्तुतस्तद सौरिग्रहराजो महाबलः ।।