kavach / vividh pujaye

Shukra Kavach

॥ शुक्र कवचम् ॥ मृणाल कुन्देन्दु पयोज सुप्रभं पीतांबरं प्रसृतम् अक्ष मालिनम् । समस्त शास्त्रार्थ निधिं महान्तं ध्यायेत् कविं वाञ्छितम् अर्थ सिध्दये ॥ 1 ॥ ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः । नेत्रे दैत्य गुरुः पातु श्रोत्रे मे चन्दन द्युतिः ॥ 2 ॥ पातु मे नासिकां काव्यो वदनं दैत्य वन्दितः । वचनं चोशनाः पातु कण्ठं श्री कण्ठ भक्तिमान् ॥ 3 ॥ भुजौ तेजो निधिः पातु कुक्षिं पातु मनो व्रजः । नाभिं भृगु सुतः पातु मध्यं पातु महीप्रियः ॥ 4 || कटिं मे पातु विश्वात्मा उरू मे सुर पूजितः । जानुं जाड्यहरः पातु जन्घे ज्ञान वतां वरः ॥ 5 ॥ गुल्फौ गुण निधिः पातु पातु पादौ वराम्बरः । सर्वाण्यङ्गानि मे पातु स्वर्ण माला परिष्कृतः ॥ 6 ॥ य इदं कवचं दिव्यं पठति श्रद्धयान्वितः । न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ 7 ॥ ॥ इति श्री ब्रह्माण्ड पुराणे शुक्र कवचं सम्पूर्णम् ॥

Shukra Kavach Read More »

Shani Dhaiya

Dashrath Krit Shani Stotra

॥ दशरथ कृत शनि स्तोत्र॥ ॐ शं शनैश्चराय नमः ॐ शं शनैश्चराय नमः ॐ शं शनैश्चराय नमः नमः कृष्णाय नीलाय शितिकण्ठ निभाय च । नमः कालाग्नि रूपाय कृतान्ताय च वै नमः ।। नमो निर्मास देहाय दीर्घश्मश्रु जटाय च। नमो विशालनेत्राय शुष्कोदर भयाकृते । नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमः । नमो दीर्घाय शुष्काय कालदष्ट्र नमोऽस्तुते ।। नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः। नमो घोराय रौद्राय भीषणाय कपालिने ।। नमस्ते सर्वभक्षाय वलीमुखाय नमोऽस्तुते । सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदाय च।। अधोदृष्टेः नमस्तेऽस्तु संवर्तक नमोऽस्तुते । नमो मन्दगते तुभ्यं निरिस्त्रणाय नमोऽस्तुते || तपसा दग्ध देहाय नित्यं योगरताय च । नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः ।। ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मज सूनवे । तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ।। देवासुर मनुष्याश्च सिद्ध विद्याधरोरगाः । त्वया विलोकिताः सर्वे नाशंयान्ति समूलतः ।। प्रसाद कुरु मे देव वाराहोऽहमुपागत । एवं स्तुतस्तद सौरिग्रहराजो महाबलः ।।

Dashrath Krit Shani Stotra Read More »

Rahu Kavach

॥ राहु कवच ॥ प्रणमामि सदा राहूं शूर्पाकारं किरीटिनम् । सैन्हिकेयं करालास्यं लोकानामभयप्रदाम् ॥ १ ॥ नीलांबरः शिरः पातु ललाटं लोक वन्दितः । चक्षुषी पातु मे राहुः श्रोत्रे त्वर्ध शरीरवान् ॥ २ ॥ नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम । जिव्हां मे सिंहिकासूनुः कंठं मे कठिनांघ्रीकः ॥ ३ ॥ भुजंगेशो भुजौ पातु नीलमाल्याम्बरः करौ । पातु वक्षः स्थलं मंत्री पातु कुक्षिं विधुतुदः ॥ ४ ॥ कटिं मे विकटः पातु ऊरु मे सुरपूजितः । स्वर्भानुर्जानुनी पातु जंघे मे पातु जाड्यहा ॥ ५ ॥ गुल्फ़ौ ग्रहपतिः पातु पादौ में भीषणाकृतिः । सर्वाण्यंगानि मे पातु नील चंदन भूषणः ॥ ६ ॥ राहोरिदं कवचमृद्धिदवस्तुदं यो । भक्त्या पठत्यनुदिनं नियतः शुचिः सन् ॥ ७ ॥ प्रप्नोत कीर्तिमतुलां श्रियमृद्धिमायु रारोग्यमात्मविजयं च हि तत्प्रसादात् ॥ ८ ॥ ॥ इति श्रीमहाभारते धृतराष्ट्रसंजयसंवादे द्रोणपर्वणि राहुकवचं संपूर्ण ॥

Rahu Kavach Read More »

Ketu Kavach

॥ केतु कवचम् ॥ केतु करालवदनं चित्रवर्ण किरीटिनम् । प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥ १ ॥ चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः । पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः ॥ २ ॥ घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः । पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः ॥ ३ ॥ हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः । सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ ४ ॥ ऊरु पातु महाशीर्षो जानुनी मेऽतिकोपनः । पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिंगलः ॥ ५ ॥ य इदं कवचं दिव्यं सर्व रोग विनाशनम् । सर्व शत्रु विनाशम् च धारणा द्विजयी भवेत् ॥ ६ ॥ ॥ इति श्री ब्रह्माण्ड पुराणे केतुकवचं संपूर्णम् ॥  

Ketu Kavach Read More »

About us

Learn and Cure एक Digital Platform है जहां पर Astrology, Numerology, Vaastu Shastra, Health, Medical, Yoga, Diet Plan आदि के बारे में ऐसी सूचना प्रदान की जाती है जिनके द्वारा जीवन को बेहतर बना सकते हैं|

Links

Contact Us

Astrology Links

Health

Festivals

Numerology

Vaastu Shastra

Kavach/Stotra/Pooja

Courses

Design and Developed by Adxventure