॥ राहु कवच ॥
प्रणमामि सदा राहूं शूर्पाकारं किरीटिनम् ।
सैन्हिकेयं करालास्यं लोकानामभयप्रदाम् ॥ १ ॥
नीलांबरः शिरः पातु ललाटं लोक वन्दितः ।
चक्षुषी पातु मे राहुः श्रोत्रे त्वर्ध शरीरवान् ॥ २ ॥
नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम ।
जिव्हां मे सिंहिकासूनुः कंठं मे कठिनांघ्रीकः ॥ ३ ॥
भुजंगेशो भुजौ पातु नीलमाल्याम्बरः करौ ।
पातु वक्षः स्थलं मंत्री पातु कुक्षिं विधुतुदः ॥ ४ ॥
कटिं मे विकटः पातु ऊरु मे सुरपूजितः ।
स्वर्भानुर्जानुनी पातु जंघे मे पातु जाड्यहा ॥ ५ ॥
गुल्फ़ौ ग्रहपतिः पातु पादौ में भीषणाकृतिः ।
सर्वाण्यंगानि मे पातु नील चंदन भूषणः ॥ ६ ॥
राहोरिदं कवचमृद्धिदवस्तुदं यो ।
भक्त्या पठत्यनुदिनं नियतः शुचिः सन् ॥ ७ ॥
प्रप्नोत कीर्तिमतुलां श्रियमृद्धिमायु
रारोग्यमात्मविजयं च हि तत्प्रसादात् ॥ ८ ॥
॥ इति श्रीमहाभारते धृतराष्ट्रसंजयसंवादे द्रोणपर्वणि राहुकवचं संपूर्ण ॥